|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.87. अध्यायः 087
Mahabharata - Udyoga Parva - Chapter Topics
विदुरेण धृतराष्ट्रंप्रति कृष्णाय दानप्रतिज्ञायाः मृषात्वकथनम् ॥ 1 ॥ तथा सामाद्युपायैः कृष्णस्य दुर्वशत्वकथनपूर्वकं तदुक्तिसत्कारविधानम् ॥ 2 ॥
Mahabharata - Udyoga Parva - Chapter Text
विदुर उवाच। 5-87-0x(3648)(34830)
राजन्बहुमतश्चासि त्रैलोक्यस्यापि सत्तमः।
संभावितश्च लोकस्य संमतश्चासि भारत ॥ 5-87-1(34831)
यत्त्वमेवंगते ब्रूयाः पश्चिमे वयसि स्थितः।
शास्त्राद्वा सुप्रतर्काद्वा सुस्थिरः स्थविरो ह्यसि ॥ 5-87-2(34832)
लेखा शशिनिभाः सूर्ये महोर्मिरिव सागरे।
धर्मस्त्वयि तथा राजन्निति व्यवसिताः प्रजाः ॥ 5-87-3(34833)
सदैव भावितो लोको गुणौघैस्तव पार्थिव ।
गुणानां रक्षणे नित्यं प्रयतस्व सबान्धवः ॥ 5-87-4(34834)
आर्जवं प्रतिपद्यस्व मा बाल्याद्ब्रहु नीनशः।
राजन्पुत्रांश्च पौत्रांश्च सुहृदश्चैव सुप्रियान् ॥ 5-87-5(34835)
यत्त्वं दित्ससि कृष्णाय राजन्नतिथये बहु ।
एतदन्यच्च दाशार्हः पृथिवीमपि चार्हति ॥ 5-87-6(34836)
न तु त्वं धर्ममुद्दिश्य तस्य वा प्रियकारणात्।
एतद्दित्ससि कृष्णाय सत्येनात्मानमालभे ॥ 5-87-7(34837)
मायैषा सत्यमेवैतच्छद्मैतद्भूरिदक्षिणा ।
जानामि त्वन्मतं राजन्गूढं बाह्येन कर्मणा ॥ 5-87-8(34838)
पञ्च पञ्चैव लिप्स्यन्ति ग्रामकान्पाण्डवा नृप ।
न च दित्ससि तेभ्यस्तांस्तच्छमं न करिष्यसि ॥ 5-87-9(34839)
अर्थेन तु महाबाहुं वार्ष्णेयं त्वं जिहीर्षसि ।
अनेन चाप्युपायेन पाण्डवेभ्यो विभेत्स्यसि ॥ 5-87-10(34840)
न च वित्तेन शक्योऽसौ नोद्यमेन न गर्हया।
अन्यो धनञ्जयात्कर्तुमेतत्तत्त्वं ब्रवीमि ते ॥ 5-87-11(34841)
वेद कृष्णस्य माहात्म्यं वेदास्य दृढभक्तिताम्।
अत्याज्यमस्य जानामि प्राणैस्तुल्यं धनञ्जयम् ॥ 5-87-12(34842)
अन्यत्कुम्भादपांपूर्णादन्यत्पादावसेचनात्।
अन्यत्कुशलसंप्रश्नान्नैवेक्ष्यति जनार्दनः ॥ 5-87-13(34843)
यत्त्वस्य प्रियमातिथ्यं मानार्हस्य महात्मनः ।
तदस्मै क्रियतां राजन्मानार्होऽसौ जनार्दनः ॥ 5-87-14(34844)
आशंसमानः कल्याणं कुरूनभ्येति केशवः ।
येनैव राजन्नर्थेन तदेवास्मा उपाकुरु ॥ 5-87-15(34845)
शममिच्छति दाशार्हस्तव दुर्योधनस्य च।
पाण्डवानां च राजेन्द्र तदस्य वचनं कुरु ॥ 5-87-16(34846)
पिताऽसि राजन्पुत्रास्ते वृद्धस्त्वं शिशवः परे।
वर्तस्व पितृवत्तेषु वर्तन्ते ते हि पुत्रवत् ॥ ॥ 5-87-17(34847)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि सप्ताशीतितमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-87-4 भावितः हृष्टः ॥ 5-87-5 मा नीनशः मा नाशं प्राप्नुहि ॥ 5-87-8 माया इन्द्रजालम्। छद्म वञ्चनम् ॥ 5-87-10 विभेत्स्यसि शल्यवत्पृथक्करिष्यसि ॥ 5-87-12 वेद विद्मि ॥ 5-87-13 नैवेक्ष्यति नैवाङ्गीकरिष्यति ॥ 5-87-15 उपाकुरु अर्पय ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|